पाठ -3
व्यायामः सर्वथा पथ्य
|
श्लोक-अर्थ
श्लोक- शरीरायासजननं
कर्म व्यायामसंज्ञितम्।। तत्कृत्वा तु सुखं देहं विमृद्नीयात्
समन्ततः।।1।।
सन्धिविच्छेदः - तत्कृत्वा - तत् कृत्वा , शरीर+आयासजननं अन्वय: शरीर - आयासजननं
कर्म व्यायाम-संजितम् , तत्कृत्वा समन्ततः
तु सुखं देहं विमृद्नीयात् ।
अर्थ - शरीर का परिश्रमजन्य कर्म (कार्य) ही व्यायाम कहलाता है । उसको (व्यायाम को) करके अच्छी तरह से सुखी शरीर की मालिश करनी चाहिए |
श्लोक- शरीरोपचयः
कान्तिर्गात्राणां सुविभक्तता। दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा।।2।।
सन्धिविच्छेदः - शरीरोपचयः - शरीर+उपचय:,
कान्तिर्गात्राणां = कान्ति:+गात्राणां दीप्ताग्नित्वमनालस्यं = दीप्त+अग्नित्वम् अनालस्यं
अन्वय: - शरीरोपचयः गात्राणां कान्ति: सुविभक्तता।दीप्त-अग्नित्वम् अनालस्यं स्थिरत्वं लाघवं मृजा।।
अर्थ - (व्यायाम करने से ) शरीर की वृद्धि , शरीरों की चमक, शारीरिक सौन्दर्य , पाचन शक्ति की वृद्धि , आलस्यहीनता, (स्फूर्ति) दृढ़ता, हल्कापन और तीन
दोषों (वात,पित्त और कफ की) शुद्धि (होती है ।)
श्लोक-श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णुता। आरोग्यं चापि परमं व्यायामादुपजायते।।3।।
सन्धिविच्छेदः - पिपासोष्ण-पिपासा+उष्ण,
शीतादीनां = शीत+आदीनाम्
चापि = च+अपि, व्यायामादुपजायते
= व्यायामात्+उपजायते
अन्वय: - श्रम-क्लम-पिपासा-उष्ण-शीतादीनां सहिष्णुता। परमं आरोग्यं च अपि व्यायामात् उपजायते । अर्थ
- मेहनत की थकान, प्यास, गर्मी सरदी आदि सहने की शक्ति और उत्तम आरोग्य व्यायाम से ही उत्पन्न होता
है याने प्राप्त होता है
श्लोक- न
चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम्। न च व्यायामिनं मर्त्यमर्दयन्त्यरयो बलात्।।4।। सन्धिविच्छेदः - चास्ति - च+अस्ति, किञ्चित्स्थौल्यापकर्षणम्
= किञ्चित्+स्थौल्य+अपकर्षणम्
मर्त्यमर्दयन्त्यरयो = मर्त्यम् + अर्दयन्ति
+ अरय: ।
अन्वय: - स्थौल्य अपकर्षणम् तेन सदृशं किञ्चिद् न अस्ति । मर्त्यम् व्यायामिनं अरय:
बलाद् न अर्दयन्ति । अर्थ - अधिक मोटापा को दूर
करने के लिए उसके (व्यायाम के ) सामान कोई
(दवाई) नहीं । मृत्यु के निकट पहुंचा याने मरणशील
व्यायाम करने वाले इंसान को दुश्मन ताकत से कुचल नहीं सकता (याने
हानि नहीं पहुँचा सकता
श्लोक- न
चैनं सहसाक्रम्य जरा समधिरोहति। स्थिरीभवति मांसं च व्यायाम अभिर तस्य च|।5|।
सन्धिविच्छेदः -चैन = च + एनम् , सहसाक्रम्य
= सहसा + आक्रम्य व्यायाम अभिर तस्य = व्यायाम+अभिरतस्य
अन्वय: - एनम् च सहसा आक्रम्य जरा न समधिरोहति |व्यायाम-अभिरतस्य च मांसं स्थिरीभवति।
अर्थ - इन (व्यायाम करने वाले इंसान) पर
अचानक बुढ़ापा हावी नहीं होता है और व्यायाम में तल्लीन रहने वाले का हाड, मांस, स्थिर होते हैं ।
श्लोक-व्यायामस्विन्नगात्रस्य
पद्भ्यामुद्वर्तितस्य च। व्याधयो नोपसर्पन्ति
वैनतेयमिवोरगाः
वयोरूपगुणै्हीनमपि कुर्यात्सुदर्शनम्।।6।।
सन्धिविच्छेदः - पद्भ्याम्+उद्वर्तितस्य,व्याधय:+नोपसर्पन्ति, न + उपसर्पन्ति -
वैनतेयम्इव ,उरगाः, वयोरुपगुणैः+हीनम्+अपि , कुर्यात्+सुदर्शनम् |
अन्वय: - पद्भ्याम् उद्वर्तितस्य व्यायामस्विन्नगात्रस्य च व्याधय: वैनतेयम् उरगा: इव न उपसर्पन्ति । वयोरूपगुणैः हीनम्
अपि सुदर्शनम् कुर्यात् ।
अर्थ - दोनों पैरों से ऊपर उठने वाले व्यायाम (करने वाले)
और पसीने से लथपथ शरीर वाले के समीप रोग (व्याधियाँ)
नहीं जाते, जैसे गरुड़ के पास साँप (नहीं जाते) । व्यायाम से आयु, रूप
और गुणहीन को सुदर्शन करना चाहिए ।
श्लोक-व्यायाम
कुर्वतो नित्यं विरुध्दमपि भोजनम्।
विदग्धमविदग्ध वा निर्दोष परिपच्यते।।7।।
सन्धिविच्छेदः -विरुध्दमपि = विरुध्दम्+अपि,
विदग्धमविदग्धं= विदग्धम्+अविदग्धं |
अन्वय: - नित्यं व्यायामं कुर्वतो विरुद्धम् भोजनम् अपि विदग्धम् अविदग्धम् वा निर्दोषं
परिपच्यते ।
अर्थ - हमेशा व्यायाम करने वाले (मनुष्य) का विपरीत भोजन (खराब भोजन) अच्छी
तरह पका हुआ अथवा कच्चा या अधपका खाना दोषरहित पच जाता है ।
श्लोक-व्यायामो
हि सदा पथ्यो बलिनां स्निग्धभोजिनाम्। स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः।।8।। सन्धिविच्छेदः - व्यायामो हि = व्यायाम: + हि
अन्वय: - हि स्निग्धभोजिनाम् बलिनां व्यायाम: सदा पथ्यः। स:
च शीते वसन्ते च तेषां पथ्यतमः स्मृतः ।
अर्थ - निश्चित ही यह व्यायाम गरिष्ठ या स्निग्ध खाना खाने वाले बलशालियों का कल्याण
करनेवाला है और वह व्यायाम सर्दी और वसंत में उन पहलवानों के लिए कल्याणकारक कहा गया
है ।
श्लोक-सर्वेष्वृतुष्वहरहः
पुम्भिरात्महितैषिभिः। बलस्यार्धेन कर्तव्यो व्यायामो हन्त्यतोऽन्यथा।।9।।
सन्धिविच्छेदः - सर्वेषु + ऋतुषु अहरहः, पुम्भि:+आत्महितैषिभिः बलस्य+अर्धेन, हन्ति+अत:+अन्यथा
अन्वय: - अत: आत्महितैषिभि: पुम्भि:
सर्वेषु ऋतुषु अहरह: बलस्य अर्धेन व्यायाम:
कर्तव्य: अन्यथा हन्ति ।
अर्थ - इसलिए खुद का भला चाहनेवाले पुरुषों के द्वारा सब ऋतुओं में हर रोज आधी ताकत
से व्यायाम करना चाहिए अन्यथा वह व्यक्ति खत्म हो जाएगा |
श्लोक-हृदिस्थानास्थितो
वायुर्यदा वक्त्रं प्रपद्यते।व्यायाम कुर्वतो जन्तोस्तबलार्धस्य लक्षणम्।।10।।
सन्धिविच्छेदः - हृदिस्थानास्थितः + वायुः+यदा,
कुर्वतः जन्तो:+तत्+बलार्धस्य
अन्वय: - यदा हृदिस्थानास्थितः वायुः वक्त्रं प्रपद्यते, तद् व्यायामं
कुर्वत: जन्तो: बलार्धस्य लक्षणम् ।
अर्थ - जब दिल में रहनेवाली हवा मुँह में आ जाती है तो समझना चाहिए कि यह व्यायाम
करने वाले मनुष्य की आधी शक्ति है ।यही इसका लक्षण है ।
श्लोक-वयो
बलशरीराणि देशकालाशनानि च। समीक्ष्य
कुर्याद् व्यायाममन्यथा रोगमाप्नुयात्।।11।।
सन्धिविच्छेदः - देशकाल+अशनानि, व्यायायम् अन्यथा,
रोगम्+आप्नुयात् |
अन्वय: - वयो बलशरीराणि देशकालाशनानि च समीक्ष्य व्यायामम् कुर्याद् अन्यथा रोगम् आप्नुयात्
।
अर्थ - आयु,बल,शरीर, देश, काल और भोजन देखकर व्यायाम करना चाहिए अन्यथा रोग
को प्राप्त करोगे ।
प्रश्न-उत्तराणि
1.अधोलिखितानां प्रश्नानाम्
उत्तराणि संस्कृतभाषया लिखत-
(क) कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते? उ.- शरीरायासजननं कर्म व्यायामसंज्ञितम् कथ्यते ।
(ख) व्यायामात् किं किमुपजायते ? उ.- श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णुता आरोग्यं च व्यायामात् उपजायते । (ग) जरा कस्य
सकाशं सहसा न समधिरोहति ? उ.- जरा
व्यायामिन: जनस्य सकाशं सहसा न समधिरोहति ।
(घ) कस्य विरुद्धमपि भोजनं
परिपच्यते ? उ.- व्यायाम
कुर्वतो नित्यं विरुद्धमपि भोजनं परिपच्यते ।
(ङ) कियता बलेन व्यायामः
कर्तव्यः ? उ.- बलस्य अर्धेन बलेन
व्यायामः कर्तव्यः |
(च) अर्धबलस्य लक्षणम् किम् ? उ.- व्यायाम
कुर्वत: जन्तो: हृदिस्थानास्थित: वायु: यदा वक्त्रं प्रपद्यते तत् एव अर्धबलस्य
लक्षणम्
2. उदाहरणमनुसृत्य कोष्ठकगतेषु
पदेषु तृतीयाविभक्तिं प्रज्युज्य रिक्तस्थानानि पूरयत-
यथा - व्यायामः
हीनमपि सुदर्शनं करोति (गुण) व्यायामः गुणैः
हीनमपि सुदर्शनं करोति।
(क) बलस्यार्धेन व्यायामः कर्तव्यः। (बलस्यार्ध)
(ख) व्यायामेन सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति।
(व्यायाम)
(ग) विद्यया विना जीवनं नास्ति। (विद्या)
(घ) सः चरणेन खजः अस्ति।
(चरण)
(ङ) सूपकारः नासिकया भोजनं जिघ्रति। (नासिका)
3.स्थूल-पदमाधृत्य प्रश्ननिर्माणं कुरुत-
(क) शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते । उ.-
कस्य
(ख) अरयः व्यायामिनं न अर्दयन्ति । उ.-
के
(ग) आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः । उ.- काभिः
(घ) व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते | उ.- कीदृशं
(ड) गात्राणां सुविभक्तता व्यायामेन संभवति । उ.- केषां
4.आ) 'व्यायामस्य लाभाः' इति विषयमधिकृत्य पञ्चवाक्येषु
एकम् अनुच्छेदं लिखत।
शारीरिक - बलप्राप्ते:
प्रमुखं साधनं व्यायामम् एव वर्तते । स्वस्थ्ये शरीरे एवa स्वस्थं मन: वसति । व्यायामात् एव
सर्वे जना: स्वास्थ्यं , बलं , सुखं च
लभन्ते । व्यायामी जन: कदापि रोगयुक्त: न भवति । शरीरस्य आरोग्यार्थं प्रतिदिनस्य
व्यायामम् अवश्यमेव करणीयम् ।
5. यथानिर्देशमुत्तरत –
(क) 'तत्कृत्वा
तु सुखं देहम्' अत्र विशेषणपदं किम् ?
(ख)'व्याधयो
नोपसर्पन्ति वैनतेयमिवोरगा:' अस्मिन वाक्ये क्रियापदं किम् ?
(ग) 'पुम्भिरात्महितैषिभिः' अत्र 'पुरुषैः' इत्यर्थे किं पदं प्रयुक्तम् ?
(ग) 'पुम्भिरात्महितैषिभिः' अत्र 'पुरुषैः' इत्यर्थे किं पदं प्रयुक्तम् ?
(घ) 'दीप्ताग्नित्वमनालस्य स्थिरन्वं लाघवं मजा इति वाक्यात् 'गौरवम्' इति पदस्य विपरितार्थकं पदं चित्वा लिखत (ङ)
'न चास्ति सदृशं तेन स्थौल्यापकर्षणम्' अस्मिन् वाक्ये 'तेन' इति सर्वनामपदं
कस्मै प्रयुक्तम् ?
6.अ) निम्नलिखितानाम्
अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत-
(सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा )
(क) सर्वदा
व्यायामः कर्तव्यः। (ख) यदा मनुष्यः सम्यक् रूपेण व्यायामं करोति तदा सः
सदा स्वस्थः तिष्ठति । (ग) व्यायामेन असुन्दराः अपि सुन्दराः भवन्ति। (घ)
व्यायामिनः जनस्य सकाशं वार्धक्यं सहसा नायाति।
(ङ) व्यायामेन सदृशं
किञ्चित् स्थौल्यापकर्षणं नास्ति। (च) व्यायाम
समीक्ष्य एव कर्तव्यम् अन्यथा व्याधयः आयान्ति।
(आ) उदाहरणमनुसृत्य
वाच्यपरिवर्तनं कुरुत-
कर्मवाच्यम् कर्तृवाच्यम्
यथा-आत्महितैषिभिः व्यायामः
क्रियते । आत्महितैषिणः
व्यायामं कुर्वन्ति।
१) बलवता विरुद्धमपि भोजनं
पच्यते । बलवान्
विरुद्धमपि भोजनं पच्यते ।
२) जनैः व्यायामेन कान्तिः
लभ्यते । जना:
व्यायामेन कान्तिः लभन्ते ।
३) मोहनेन पाठः पठ्यते। मोहन:
पाठं पठति ।
४) लतया गीतं गीतये । लता
गीतं गायति ।
7.(क) अधोलिखितेषु
तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत
मूलशब्दः (प्रकृतिः) प्रत्ययः
(क) पथ्यतमः = पथ्य तमप
(ख) सहिष्णुता = सहिष्णु तल्
(ग) अग्नित्वम् = अग्नि त्वं
(घ) स्थिरत्वम् = स्थिर त्व
(ङ) लाघवम्= लघु अण
(आ) अधोलिखितकृदन्तपदेषु
मूलधातुं प्रत्ययं च पृथक् कृत्वा लिखत-
(क) कर्तव्य -कृ+तव्यत् (ख)
भोजनम्- भुज् + व्यञ (ग) आस्थितः -आ + स्था
+ क्त
(घ) स्मृतः- स्मृ+क्त (ङ) समीक्ष्य- सम् +ईक्ष+ल्यप्
*(च) आक्रम्य- आ + क्रम् +ल्यप्
(छ) जननम् -जन्+ ल्युट्
If You Want PDF plz contact us.
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें